Monday, 23 October 2017

*”सेल्फीमाहात्म्यम्”*


इदानीं सम्प्रवक्ष्यामि सेल्फीमाहात्म्यमुत्तमम्
यस्याः ग्रहणमात्रेण प्रसिद्धो मानवो भवेत्।।
देवकार्ये पितृकार्ये पूजाकार्ये विशेषतः।
राजद्वारे श्मशाने च मन्दिरे प्राणसंकटे।।
गंगास्नाने विवाहे च नर्मकार्ये तथैव च।
सर्वास्वापत्सु घोरासु तथा भार्यासमागमे।।
हिंसन् प्राणिगणं चैव तथा बालनिपीडने।
यदुक्तं सर्वथा गोप्यं यच्चोक्तं हि विनिन्दितम्।।
सर्वमेव प्रगृह्णन् हि जनोऽमरतां गमिष्यति।।
सेल्फीं गृहाण सर्वत्र फेस्बुके चापलोडय।

विश्वेऽस्मिन् प्रीतिमासाद्य प्रसिद्धिं त्वं गमिष्यसि।।

No comments:

Post a Comment