Saturday, 7 October 2017

संगणकयन्त्र खेल च अन्य पुस्तकानि उपयोगितुम भवितुम







मेघदूत नाटकस्य प्रथम श्लोक


गूगलगीता

गूगलगीता

कुत्र किं क्रीयते वस्तु कुत्र विक्रीयते च तत् ।
किं मूल्यं च भवेन्मित्र गूगलं शरणं व्रज ॥ १ ॥
अस्वस्थमद्यमेऽपत्यं को गदः किं च भेषजम् ।
कुत्रास्ति वैद्यो मे ब्रूहि गूगलं शरणं व्रज ॥ २॥
भोजनाय क्व गच्छाम किं खाद्यं तत्र लभ्यते ।
किं मूल्यं च कियद्दूरं गूगलं शरणं व्रज ॥ ३ ॥
चलचित्रालयं कुत्र तत्र किं चित्रदर्शनम् ।
तत्र दर्शनवेला का गूगलं शरणं व्रज ॥ ४ ॥
कुत्रास्म्यहमिदानीं भोः कियद्दूरं हि मद्गृहम् ।
वर्त्मना केन गच्छानि गूगलं शरणं व्रज ॥ ५ ॥  
विश्रान्त्यै कुत्र गच्छाम तत्रासीदाम वा कथम् ।     
तत्र पश्याम किं मित्र गूगलं शरणं व्रज ॥ ६ ॥
कोऽर्थः पदस्य तत् वाक्ये कथं सम्यक् प्रयुज्यते ।
समानार्थपदं किं स्यात् गूगलं शरणं व्रज ॥ ७ ॥  
चित्राणि द्रष्टुमिच्छामि श्रोतुमिच्छामि गायनम् ।
इच्छामि पठितुं ग्रन्थं गूगलं शरणं व्रज ॥ ८ ॥
शालायां सहपाठी मे कुत्राद्येति कुतूहलम् ।
देशकालततायामं गूगलं शरणं व्रज ॥ ९ ॥
चेतुमिच्छसि किं पत्नीं पतिं जामातरं स्नुषाम् ।
नवोद्योगं तदा सद्यः गूगलं शरणं व्रज ॥ १० ॥
विमानरेल्-यानानां गमनागमनेषु किम्।
विलम्बं सूच्यते मित्र गूगलं शरणं व्रज ॥ ११ ॥
कुत्र वर्षति पर्जन्यः कुत्र शैत्यं कियन्मितम् ।
कुत्र सूर्यप्रखरता गूगलं शरणं व्रज ॥ १२ ॥
नगरे मम का वार्ता मद्देशे वा महीतले ।
क्रीडासु जनसौख्ये च गूगलं शरणं व्रज ॥ १३ ॥
तत्त्वार्थशास्त्रविज्ञानगणिताध्ययने स्पृहा ।
सर्वज्ञानमहाद्वारं गूगलं शरणं व्रज ॥ १४ ॥
आत्मानन्दं मनःशान्तिं तृप्तिं वाञ्छसि वा यदि ।
गूगलं सम्परित्यज्य श्रीहरिं शरणं व्रज ॥ १५ ॥

Friday, 29 September 2017

if some one change his religion and became hindu so what will he or she have gotra and who will decide and by what prouff.


If the गोत्रम् is not known ? Say काश्यपसगोत्रः --

हेमाद्रौ चन्द्रिकायां च --

गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमुच्यते ।
यस्मादाह श्रुतिस्सर्वाः प्रजाः कश्यपसंभवाः।

यत्तु सत्याषाढः - अथाज्ञातबन्धोः पुरोहितगोत्रेण आचार्यगोत्रेण वेति तत् वैवाहपरम् ।

In Panini  outside अपत्याधिकार it is लौकिकं गोत्रम् - अपत्याधिकारे तु पारिभाषिकं गोत्रम् - अपत्यं पौत्रप्रभृति गोत्रम् (पा सू) etc.